भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 1.16

1.16.79

ऋग्वेद.आद्य.सूक्तस्य.विधिम्.वक्ष्याम्य्.अतः.परम्.।
यथा.ऋषिर्.मधुच्छन्दाः.कर्म.एतेन.अकरोत्.पुरा.॥

1.16.80

शिरसा.धारयेद्.अग्निम्.नियतः.परिवत्सरम्.।
चतुर्थ.प्राण.कालीयो.हुत.शिष्टम्.अदन्.हविः.॥

1.16.81

जुह्वत्.त्रिर्.उपतिष्ठेत.सत्य.वादी.दिने.दिने.।
व्रत.काले.तु.सम्प्राप्त.आग्नेयम्.निर्वपेच्.चरुत्म्.॥

1.16.82

अनग्नौ.ध्यात.मात्रो.अग्निर्.व्रत.अन्ते.अस्य.उपतिष्ठति.।
दहेयम्.इति.यम्.चेच्छेत्तम्.दहत्य्.एव.पावकः.॥(?)

1.16.83

अप्स्व्.अप्य्.अग्निर्.ज्वलत्य्.एव.तद्.व्रतस्य.महात्मनः.।
समर्धयति.तम्.च.इष्टैः.कामैर्.वह्निः.प्रयत्नतः.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc