भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 1.15

1.15.72

आदाव्.एव.तु.सावित्र्या.कर्म.कुर्वीत.शान्तये.।
पुष्टये.धन.लाभाय.पशु.लाभाय.भूतये.॥

1.15.73

एषा.हि.सम्मिता.वेदैः.सर्व.ब्रह्ममई.निचृत्.।
उग्रेण.तपसा.दृष्टा.विश्वामित्रेण.धीमता.॥

1.15.74

होमांश्.च.जप.यज्ञांश्.च.नित्यम्.कुर्वीत.च.एतया.।
सर्व.काम.समृद्ध्य्.अर्थम्.परम्.ब्रहम्.इदम्.उच्यते.॥

1.15.75

एषा.एव.प्रतिलोम.उक्ता.पच्छः.शत्रु.विनाशिनी.।(?)
अक्षर.प्रतिलोमा.इयम्.अभिचारेषु.शस्यते.॥

1.15.76

अक्षर.प्रतिकोमा.इयम्.यस्मिन्.युज्येत.कर्मणि.।
तद्.अमोघम्.विजानीयाद्.एतद्.वै.ब्रह्मणो.बलम्.॥

1.15.77

व्याघातक.इध्म.समिधो.अक्षर.प्रतिलोमया.।(?)
जुहुयात्.सार्षपम्.तैलम्.वैभीतक.कृत.स्रुचा.॥

1.15.78

य.इच्छेत्.पीडनम्.शत्रोर्.अपि.वा.उच्चाटनम्.पुनः.।
पच्छः.सम्पीडयेत्.शत्रून्.वर्णशश्.च.प्रमापयेत्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc