भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 1.14

1.14.67

ऋषिम्.सर्वम्.इदम्.जप्त्वा.सपुतम्.नियत.ः.शुचिः.।(?)
संहिता.फलम्.आप्नोति.ऋग्वेदस्य.न.संशयः.॥

1.14.68

एकादश.गुणम्.ह्य्.एतज्.जपन्.ब्रह्म.सनातनम्.।
सर्वान्.कामान्.अवाप्नोति.पापैश्.च.परिमुच्यते.॥

1.14.69

अनश्नन्.संहिताम्.एताम्.प्रातः.प्रातर्.दिने.दिने.।
आयुर्.विध्याम्.धनम्.पुत्रान्.गृहांश्.च.आप्नोत्य्.अनामयान्.॥

1.14.70

एतद्.ब्रह्म.जपन्.शूद्रान्.न.ईक्षेत.अन्यांश्.च.तद्विधान्.।
प्रेक्ष्य.आचम्य.उदकम्.पूतः.पश्येद्.गाम्.अग्नि.भास्करौ.॥

1.14.71

मन्द्रम्.जपो.दश.गुण.उपांशु.स्यात्.शत.अन्वितः.।
सहस्रम्.मानसम्.विद्याद्.एष.जप्य.विधिः.स्मृतः.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc