ऋग्विधान · अध्याय 1.13
मन्द्रम्.एव.पठेत्.प्रातर्.उच्चैर्.मध्यंदिने.पठेत्.।
उच्चैर्.एव.अपर.अह्ने.तु.संध्या.काल.उपारमेत्.॥
ब्राह्मे.मुहूर्ते.च.उत्थाय.त्रिर्.आप्लुत्य.पठेद्.द्विजः.।
मध्यमाम्.वृत्तिम्.आस्थाय.न.द्रुताम्.न.विलम्बिताम्.॥
पूर्वाम्.संध्याम्.जपैस्.तिष्ठेद्.उपासीत.च.पश्चिमाम्.।
न.च.अन्तरा.व्याहरेत.विरमेद्.वा.कथंचन.॥
विरमेद्.ब्राह्मणे.प्राप्ते.कामम्.तेन.तु.संवदेत्.।
शूद्रम्.दृष्ट्वा.एव.सम्प्राप्तम्.न.अधीयीत.कथंचन.॥
आग्नेयम्.सूक्तम्.आद्यम्.तु.मुख्यम्.ब्रह्म.ऋषि.सम्मतम्.।
रायस्.पोष.करम्.धन्यम्.जपन्.विप्रो.अर्थम्.आप्नुयात्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0