ग्रंथ पाठ
ऋग्विधान · अध्याय 1.12
1.12.57
आशताद्.वायमेत्.प्राणान्.जपन्.ब्रह्म.अघमर्षणम्.।(?)
यावद्.वा.मनसस्.तुष्टिस्.तावत्.प्राणान्त्.समायमेत्.॥
1.12.58
यथा.यथा.मनस्.तस्य.दुष्कृतम्.कर्म.गर्हति.।
तथा.तथा.शरीरम्.तत्.तेन.अधर्मेण.मुच्यते.॥
1.12.59
प्राण.आयामैर्.दग्ध.दोषः.शुक्ल.अम्बर.धरः.शुचिः.।
यथा.विध्य्.अप.आचम्य.आरोहेद्.धर्म.प्रस्तरम्.॥
1.12.60
पवित्र.पाणिः.कृत्वा.तु.उपस्थम्.दक्षिण.उत्तरम्.।
दिशोर्.एव.अन्तरम्.प्रेक्ष्य.अनिमिषम्.छाद्य.चक्षुषी.॥
1.12.61
ओम्.कार्म.व्याहृतीस्.तिस्रः.सावित्रीम्.च.तद्.इत्य्.ऋचम्.।
मनसा.एता.अनुद्रुत्य.वेद.आदिम्.समुपकमेत्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0