ऋग्वेदसंहिता, पदपाठ · अध्याय 9.100
॥26॥.
-र्व्_7:4।27-
(र्व्_9,100)
अभि । नवन्ते । अद्रुहः । प्रियम् । इन्द्रस्य । काम्यम् । वत्सम् । न । पूर्वे । आयुनि । जातम् । रिहन्ति । मातरः
पुनानः । इन्दो इति । आ । भर । सोम । द्वि-बर्हसम् । रयिम् । त्वम् । वसूनि । पुष्यसि । विश्वानि । दाशुषः । गृहे
त्वम् । धियम् । मनः-युजम् । सृज । वृष्टिम् । न । तन्यतुः । त्वम् । वसूनि । पार्थिवा । दिव्या । च । सोम । पुष्यसि
परि । ते । जिग्युषः । यथा । धारा । सुतस्य । धावति । रंहमाणा । वि । अव्ययम् । वारम् । वाजी-इव । सानसिः
क्रत्वे । दक्षाय । नः । कवे । पवस्व । सोम । धारया । इन्द्राय । पातवे । सुतः । मित्राय । वरुणाय । च
॥27॥.
-र्व्_7:4।28-
पवस्व । वाज-सातमः । पवित्रे । धारया । सुतः । इन्द्राय । सोम । विष्णवे । देवेभ्यः । मधुमत्-तमः
त्वाम् । रिहन्ति । मातरः । हरिम् । पवित्रे । अद्रुहः । वत्सम् । जातम् । न । धेनवः । पवमान । वि-धर्मणि
पवमान । महि । श्रवः । चित्रेभिः । यासि । रश्मि-भिः । शर्धन् । तमांसि । जिघ्नसे । विश्वानि । दाशुषः । गृहे
त्वम् । द्याम् । च । महि-व्रत । पृथिवीम् । च । अति । जभ्रिषे । प्रति । द्रापिम् । अमुञ्चथाः । पवमान । महि-त्वनास्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0