भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.95

9.95.1

॥4॥.
-र्व्_7:4।5-
(र्व्_9,95)
कनिक्रन्ति । हरिः । आ । सृज्यमानः । सीदन् । वनस्य । जठरे । पुनानः । नृ-भिः । यतः । कृणुते । निः-निजम् । गाः । अतः । मतीः । जनयत । स्वधाभिः

9.95.2

हरिः । सृजानः । पथ्याम् । ऋतस्य । इयर्ति । वाचम् । अरिता-इव । नावम् । देवः । देवानाम् । गुह्यानि । नाम । आविः । कृणोति । बर्हिषि । प्र-वाचे

9.95.3

अपाम्-इव । इत् । ऊर्मयः । तर्तुराणाः । प्र । मनीषाः । ईरते । सोमम् । अच्छ । नमस्यन्तीः । उप । च । यन्ति । सम् । च । आ । च । विशन्ति । उशतीः । उशन्तम्

9.95.4

तम् । मर्मृजानम् । महिषम् । न । सानौ । अंशुम् । दुहन्ति । उक्षणम् । गिरि-स्थाम् । तम् । वावशानम् । मतयः । सचन्ते । त्रितः । बिभर्ति । वरुणम् । समुद्रे

9.95.5

इष्यन् । वाचम् । उपवक्ता-इव । होतुः । पुनानः । इन्दो इति । वि । स्य । मनीषाम् । इन्द्रः । च । यत् । क्षयथः । सौभगाय । सु-वीर्यस्य । पतयः । स्याम

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc