ऋग्वेदसंहिता, पदपाठ · अध्याय 9.94
॥3॥.
-र्व्_7:4।4-
(र्व्_9,94)
अधि । यत् । अस्मिन् । वाजिनि-इव । शुभः । स्पर्धन्ते । धियः । सूर्ये । न । विशः । अपः । वृणानः । पवते । कवि-यन् । व्रजम् । न । पशु-वर्धनाय । मन्म
द्विता । वि-ऊर्ण्वन् । अमृतस्य । धाम । स्वः-विदे । भुवनानि । प्रथन्त । धियः । पिन्वानाः । स्वसरे । न । गावः । ऋत-यन्तीः । अभि । ववश्रे । इन्दुम्
परि । यत् । कविः । काव्या । भरते । शूरः । न । रथः । भुवनानि । विश्वा । देवेषु । यशः । मर्ताय । भूषन् । दक्षाय । रायः । पुरु-भूषु । नव्यः
श्रिये । जातः । श्रिये । आ । निः । इयाय । श्रियम् । वयः । जरितृ-भ्यः । दधाति । श्रियम् । वसानाः । अमृत-त्वम् । आयन् । भवन्ति । सत्या । सम्-इथा । मित-द्रौ
इषम् । ऊर्जम् । अभि । अर्ष । अश्वम् । गाम् । उरु । ज्योतिः । कृणुहि । मत्सि । देवान् । विश्वानि । हि । सु-सहा । तानि । तुभ्यम् । पवमान । बाधसे । सोम । शत्रून्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0