भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.93

9.93.1

॥2॥.
-र्व्_7:4।3-
(र्व्_9,93)
साकम्-उक्षः । मर्जयन्त । स्वसारः । दश । धीरस्य । धीतयः । धनुत्रीः । हरिः । परि । अद्रवत् । जाः । सूर्यस्य । द्रोणम् । ननक्षे । अत्यः । न । वाजी

9.93.2

सम् । मातृ-भिः । न । शिशुः । वावशानः । वृषा । दधन्वे । पुरु-वारः । अत्-भिः । मर्यः । न । योषाम् । अभि । निः-कृतम् । यन् । सम् । गच्छते । कलशे । उस्रियाभिः

9.93.3

उत । प्र । पिप्ये । ऊधः । अघ्न्यायाः । इन्दुः । धाराभिः । सचते । सु-मेधाः । मूधार्नम् । गावः । पयसा । चमूषु । अभि । श्रीणन्ति । वसु-भिः । न । निक्तैः

9.93.4

सः । नः । देवेभिः । पवमान । रद । इन्दो इति । रयिम् । अश्विनम् । वावशानः । रथिरायताम् । उशती । पुरम्-धिः । अस्मद्र्यक् । आ । दावने । वसूनाम्

9.93.5

नु । नः । रयिम् । उप । मास्व । नृ-वन्तम् । पुनानः । वाताप्यम् । विश्व-चन्द्रम् । प्र । वन्दितुः । इन्दो इति । तारि । आयुः । प्रातः । मक्षु । धियावसुः । जगम्यात्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc