ऋग्वेदसंहिता, पदपाठ · अध्याय 9.92
॥1॥.
-र्व्_7:4।2-
(र्व्_9,92)
परि । सुवानः । हरिः । अंशुः । पवित्रे । रथः । न । सर्जि । सनये । हियानः । आपत् । श्लोकम् । इन्द्रियम् । पूयमानः । प्रति । देवान् । अजुषत । प्रयः-भिः
अच्छ । नृ-चक्षाः । असरत् । पवित्रे । नाम । दधानः । कविः । अस्य । योनौ । सीदन् । होता-इव । सदने । चमूषु । उप । ईम् । अग्मन् । ऋषयः । सप्त । विप्राः
प्र । सु-मेधाः । गातु-वित् । विश्व-देवः । सोमः । पुनानः । सदः । एति । नित्यम् । भुवत् । विश्वेषु । काव्येषु । रन्ता । अनु । जनान् । यतते । पञ्च । धीरः
तव । त्ये । सोम । पवमान । निण्ये । विश्वे । देवाः । त्रयः । एकादशासः । दश । स्वधाभिः । अधि । सानौ । अव्ये । मृजन्ति । त्वा । नद्यः । सप्त । यह्वीः
तत् । नु । सत्यम् । पवमानस्य । अस्तु । यत्र । विश्वे । कारवः । सम्-नसन्त । ज्योतिः । यत् । अह्ने । अकृणोत् । ओं इति । लोकम् । प्र । आवत् । मनुम् । दस्यवे । कः । अभीकम्
पर् । सद्म-इव । पशु-मन्ति । होता । राजा । न । सत्यः । सम्-इतीः । इयानः । सोमः । पुनानः । कलशान् । अयासीत् । सीदन् । मृगः । न । महिषः । वनेषु
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0