ऋग्वेदसंहिता, पदपाठ · अध्याय 9.9
॥31॥.
-र्व्_6:7।32-
(र्व्_9,9)
परि । प्रिया । दिवः । कविः । वयांसि । नप्त्योः । हितः । सुवानः । याति । कवि-क्रतुः
प्र-प्र । क्षयाय । पन्यसे । जनाय । जुष्टः । अद्रुहे । वीती । अर्ष । चनिष्ठया
सः । सूनुः । मातरा । शुचिः । जातः । जाते इति । अरोचयत् । महान् । मही । ऋत-वृधा
सः । सप्त । धीति-भिः । हितः । नद्यः । अजिन्वत् । अद्रुहः । याः । एकम् । अक्षि । ववृधुः
ताः । अभि । सन्तम् । अस्तृतम् । महे । युवानम् । आ । दधुः । इन्दुम् । इन्द्र । तव । व्रते
॥32॥.
-र्व्_6:7।33-
अभि । वह्निः । अमर्त्यः । सप्त । पश्यति । वावहिः । क्रिविः । देवीः । अतर्पयत्
अव । कल्पेषु । नः । पुमः । तमांसि । सोम । योध्या । तानि । पुनान । जङ्घनः
नु । नव्यसे । नवीयसे । सु-उक्ताय । साधय । पथः । प्रत्न-वत् । रोचय । रुचः
पवमान । महि । श्रवः । गाम् । अश्वम् । रासि । वीर-वत् । सना । मेधाम् । सना । स्वः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0