ऋग्वेदसंहिता, पदपाठ · अध्याय 9.10
॥33॥.
-र्व्_6:7।34-
(र्व्_9,10)
प्र । स्वानासः । रथाः-इव । अर्वन्तः । न । श्रवस्यवः । सोमासः । राये । अक्रमुः
हिन्वानासः । रथाः-इव । दधन्विरे । गभस्त्योः । भरासः । कारिणाम्-इव
राजानः । न । प्रशस्ति-भिः । सोमासः । गोभिः । अञ्जते । यज्ञः । न । सप्त । धातृ-भिः
परि । सुवानासः । इन्दवः । मदाय । बर्हणा । गिरा । सुताः । अर्षन्ति । धारया
आपानासः । विवस्वतः । जनन्तः । उषसः । भगम् । सूराः । अण्वम् । वि । तन्वते
॥34॥.
-र्व्_6:7।35-
अप । द्वारा । मतीनाम् । प्रत्नाः । ऋण्वन्ति । कारवः । वृष्णः । हरसे । आयवः
समीचीनासः । आसते । होतारः । सप्त-जामयः । पदम् । एकस्य । पिप्रतः
नाभा । नाभिम् । नः । आ । ददे । चक्षुः । चित् । सूर्ये । सचा । कवेः । अपत्यम् । आ । दुहे
अभि । प्रिया । दिवः । पदम् । अध्वर्यु-भिः । गुहा । हितम् । सूरः । पश्यति । चक्षसा
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0