भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.8

9.8.1

॥29॥.
-र्व्_6:7।30-
(र्व्_9,8)
एते । सोमाः । अभि । प्रियम् । इन्द्रस्य । कामम् । अक्षरन् । वर्धन्तः । अस्य । वीर्यम्

9.8.2

पुनानासः । चमू-सदः । गच्छन्तः । वायुम् । अश्विना । ते । नः । धान्तु । सु-वीर्यम्

9.8.3

इन्द्रस्य । सोम । राधसे । पुनानः । हार्दि । चोदय । ऋतस्य । योनिम् । आसदम्

9.8.4

मृजन्ति । त्वा । दश । क्षिपः । हिन्वन्ति । सप्त । धीतयः । अनु । विप्राः । अमादि षुः

9.8.5

देवेभ्यः । त्वा । मदाय । कम् । सृजानम् । अति । मेष्यः । सम् । गोभिः । वासयामसि

9.8.6

॥30॥.
-र्व्_6:7।31-
पुनानः । कलशेषु । आ । वस्त्राणि । अरुषः । हरिः । परि । गव्यानि । अव्यत

9.8.7

मघोनः । आ । पवस्व । नः । जहि । विश्वाः । अप । द्विषः । इन्दो इति । सखायम् । आ । विश

9.8.8

वृष्टिम् । दिवः । परि । स्रव । द्युम्नम् । पृथिव्याः । अधि । सहः । नः । सोम । पृत्-सु । धाः

9.8.9

नृ-चक्षसम् । त्वा । वयम् । इन्द्र-पीतम् । स्वः-विदम् । भक्षीमहि । प्र-जाम् । इषम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc