भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.89

9.89.1

॥24॥.
-र्व्_7:3।25-
(र्व्_9,89)
प्रो इति । स्यः । वह्निः । पथ्याभिः । अस्यान् । दिवः । न । वृष्टिः । पवमानः । अक्षाः । सहस्र-धारः । असदत् । नि । अस्मे इति । मातुः । उप-स्थे । वने । आ । च । सोमः

9.89.2

राजा । सिन्धूनाम् । अवसिष्ट । वासः । ऋतस्य । नावम् । आ । अरुहत् । रजिष्ठाम् । अप्-सु । द्रप्सः । ववृधे । श्येन-जूतः । दुहे । ईम् । पिता । दुहे । ईम् । पितुः । जाम्

9.89.3

सिंहम् । नसन्त । मध्वः । अयासम् । हरिम् । अरुषम् । दिवः । अस्य । पतिम् । शूरः । युत्-सु । प्रथमः । पृच्छते । गाः । अस्य । चक्षसा । परि । पाति । उक्षा

9.89.4

मधु-पृष्ठम् । घोरम् । अयासम् । अश्वम् । रथे । युञ्जन्ति । उरु-चक्रे । ऋष्वम् । स्वसारः । ईम् । जामयः । मर्जयन्ति । स-नाभयः । वाजिनम् । ऊर्जयन्ति

9.89.5

चतस्रः । ईम् । घृत-दुहः । सचन्ते । समाने । अन्तः । धरुणे । नि-सत्ताः । ताः । ईम् । अर्षन्ति । नमसा । पुनानाः । ताः । ईम् । विश्वतः । परि । सन्ति । पूर्वीः

9.89.6

विष्टम्भः । दिवः । धरुणः । पृथिव्याः । विश्वाः । उत । क्षितयः । हस्ते । अस्य । असत् । ते । उत्सः । गृणते । नियुत्वान् । मध्वः । अंशुः । पवते । इन्द्रियाय

9.89.7

वन्वन् । अवातः । अभि । देव-वीतिम् । इन्द्राय । सोम । वृत्र-हा । पवस्व । शग्धि । महः । पुरु-चन्द्रस्य । रायः । सु-वीर्यस्य । पतयः । स्याम

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc