ऋग्वेदसंहिता, पदपाठ · अध्याय 9.90
॥25॥.
-र्व्_7:3।26-
(र्व्_9,90)
प्र । हिन्वानः । जनिता । रोदस्योः । रथः । न । वाजम् । सनिष्यन् । चयासीत् । इन्द्रम् । गच्छन् । आयुधा । सम्-शिशानः । विश्वा । वसु । हस्तयोः । आदधानः
अभि । त्रि-पृष्ठम् । वृषणम् । वयः-धाम् । आङ्गूषाणाम् । अवावशन्त । वाणीः । वना । वसानः । वरुणः । न । सिन्धून् । वि । रत्न-धाः । दयते । वार्याणि
शूर-ग्रामः । सर्व-वीरः । सहावान् । जेता । पवस्व । सनिता । धनानि । तिग्म-आयुधः । क्षिप्र-धन्वा । समत्-सु । अषाळ्हः । सह्वान् । पृतनासु । शत्रून्
उरु-गव्यूतिः । अभयानि । कृण्वन् । समीचीने इतिसम्-ईचीने । आ । पवस्व । पुरन्धी इतिपुरम्-धी । अपः । सिसासन् । उषसः । स्वः । गाः । सम् । चिक्रदः । महः । अस्मभ्यम् । वाजान्
मत्सि । सोम । वरुणम् । मत्सि । मित्रम् । मत्सि । इन्द्रम् । इन्दो इति । पवमान । विष्णुम् । मत्सि । शर्धः । मारुतम् । मत्सि । देवान् । मत्सि । महाम् । इन्द्रम् । इन्दो इति । मदाय
एव । राजा-इव । क्रतु-मान् । अमेन । विश्वा । घनिघ्नत् । दुः-इता । पवस्व । इन्दो इति । सु-उक्ताय । वचसे । वयः । धाः । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0