भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.88

9.88.1

॥23॥.
-र्व्_7:3।24-
(र्व्_9,88)
अयम् । सोमः । इन्द्र । तुभ्यम् । सुन्वे । तुभ्यम् । पवते । त्वम् । अस्य । पाहि । त्वम् । ह । यम् । चकृषे । त्वम् । ववृषे । इन्दुम् । मदाय । युज्याय । सोमम्

9.88.2

सः । ईम् इति । रथः । न । भुरिषाट् । अयोजि । महः । पुरूणि । सातये । वसूनि । आत् । ईम् इति । विश्वा । नहुष्याणि । जाता । स्वः-साता । वने । ऊर्ध्वा । नवन्त

9.88.3

वायुः । न । यः । नियुत्वान् । इष्ट-यामा । नासत्या-इव । हवे । आ । शम्-भविष्ठः । विश्व-वारः । द्रविणोदाः-इव । त्मन् । पूषा-इव । धी-जवनः । असि । सोम

9.88.4

इन्द्रः । न । यः । महा । कर्माणि । चक्रिः । हन्ता । वृत्राणाम् । असि । सोम । पूः-भित् । पैद्वः । न । हि । त्वम् । अहि-नाम्नाम् । हन्ता । विश्वस्य । असि । सोम । दस्योः

9.88.5

अग्निः । न । यः । वने । आ । सृज्यमानः । वृथा । पाजांसि । कृणुते । नदीषु । जनः । न । युध्वा । महतः । उपब्दिः । इयर्ति । सोमः । पवमानः । ऊर्मिम्

9.88.6

एते । सोमाः । अति । वाराणि । अव्या । दिव्या । न । कोशासः । अभ्र-वर्षाः । वृथा । समुद्रम् । सिन्धवः । न । नीचीः । सुतासः । अभि । कलशान् । असृग्रन्

9.88.7

शुष्मी । शर्धः । न । मारुतम् । पवस्व । अनभि-शस्ता । दिव्या । यथा । विट् । आपः । न । मक्षु । सु-मतिः । भव । नः । सहस्र-अप्साः । पृतनाषाट् । न । यज्ञः

9.88.8

राज्ञः । नु । ते । वरुणस्य । व्रतानि । बृहत् । गभीरम् । तव । सोम । धाम । शुचिः । त्वम् । असि । प्रियः । न । मित्रः । दक्षाय्यः । अर्यमा-इव । असि । सोम

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc