ऋग्वेदसंहिता, पदपाठ · अध्याय 9.84
॥8॥.
-र्व्_7:3।9-
(र्व्_9,84)
पवस्व । देव-मादनः । वि-चर्षणिः । अप्साः । इन्द्राय । वरुणाय । वायवे । कृधि । नः । अद्य । वरिवः । स्वस्ति-मत् । उरु-क्षितौ । गृणीहि । दैव्यम् । जनम्
आ । यः । तस्थौ । भुवनानि । अमर्त्यः । विश्वानि । सोमः । परि । तानि । अर्षति । कृण्वन् । सम्-चृतम् । वि-चृतम् । अभिष्टये । इन्दुः । सिसक्ति । उषसम् । न । सूर्यः
आ । यः । गोभिः । सृज्यते । ओषधीषु । आ । देवानाम् । सुम्ने । इषयन् । उप-वसुः । आ । वि-द्युता । पवते । धारया । सुतः । इन्द्रम् । सोमः । मादयन् । दैव्यम् । जनम्
एषः । स्यः । सोमः । पवते । सहस्र-जित् । हिन्वानः । वाचम् । इषिराम् । उषः-बुधम् । इन्दुः । समुद्रम् । उत् । इयर्ति । वायु-भिः । आ । इन्द्रस्य । हार्दि । कलशेषु । सीदति
अभि । त्यम् । गावः । पयसा । पयः-वृधम् । सोमम् । श्रीणन्ति । मति-भिः । स्वः-विदम् । धनम्-जयः । पवते । कृत्व्यः । रसः । विप्रः । कविः । काव्येन । स्वः-चनाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0