भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.83

9.83.1

॥7॥.
-र्व्_7:3।8-
(र्व्_9,83)
पवित्रम् । ते । वि-ततम् । ब्रह्मणः । पते । प्र-भुः । गात्राणि । परि । एषि । विश्वतः । अतप्त-तनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । वहन्तः । तत् । सम् । आशत

9.83.2

तपोः । पवित्रम् । वि-ततम् । दिवः । पदे । शोचन्तः । अस्य । तन्तवः । वि । अस्थिरन् । अवन्ति । अस्य । पवीतारम् । आशवः । दिवः । पृष्थम् । अधि । तिष्ठन्ति । चेतसा

9.83.3

अरूरुचत् । उषसः । पृश्निः । अग्रियः । उक्षा । बिभर्ति । भुवनानि । वाज-युः । मायाविनः । ममिरे । अस्य । मायया । नृ-चक्षसः । पितरः । गर्भम् । आ । दधुः

9.83.4

गन्धर्वः । इत्था । पदम् । अस्य । रक्षति । पाति । देवानाम् । जनिमानि । अद्भुतः । गृभ्णाति । रिपुम् । नि-धया । निधापतिः । सुकृत्-तमाः । मधुनः । भक्षम् । आशत

9.83.5

हविः । हविष्मः । महि । सद्म । दैव्यम् । नभः । वसानः । परि । यासि । अध्वरम् । राजा । पवित्र-रथः । वाजम् । आ । अरुहः । सहस्र-भृष्टिः । जयसि । श्रवः । बृहत्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc