ऋग्वेदसंहिता, पदपाठ · अध्याय 9.80
॥4॥.
-र्व्_7:3।5-
(र्व्_9,80)
सोमस्य । धारा । पवते । नृ-चक्षसः । ऋतेन । देवान् । हवते । दिवः । परि । बृहस्पतेः । रवथेन । वि । दिद्युते । समुद्रासः । न । सवनानि । विव्यचुः
यम् । त्वा । वाजिन् । अघ्न्याः । अभि । अनूषता । अयः-हतम् । योनिम् । आ । रोहसि । द्यु-मान् । मघोनाम् । आयुः । प्र-तिरत् । महि । श्रव । इन्द्राय । सोम । पवसे । वृषा । मदः
आ । इन्द्रस्य । कुक्षा । पवते । मदिन्-तमः । ऊर्जम् । वसानः । श्रवसे । सु-मङ्गलः । प्रत्यङ् । सः । विश्वा । भुवना । अभि । पप्रथे । क्रीळन् । हरिः । अत्यः । स्यन्दते । वृषा
तम् । त्वा । देवेभ्यः । मधुमत्-तमम् । नरः । सहस्र-धारम् । दुहते । दश । क्षिपः । नृ-भिः । सोम । प्र-च्युतः । ग्राव-भिः । सुतः । विश्वान् । देवान् । आ । पवस्व । सहस्र-जित्
तम् । त्वा । हस्तिनः । मधु-मन्तम् । अद्रि-भिः । दुहन्ति । अप्-सु । वृषभम् । दश । क्षिपः । इन्द्रम् । सोम । मादयन् । दैव्यम् । जनम् । सिन्धोः-इव । ऊर्मिः । पवमानः । अर्षसि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0