ऋग्वेदसंहिता, पदपाठ · अध्याय 9.81
॥5॥.
-र्व्_7:3।6-
(र्व्_9,81)
प्र । सोमस्य । पवमानस्य । ऊर्मयः । इन्द्रस्य । यन्ति । जठरम् । सु-पेशसः । दध्ना । यत् । ईम् । उत्-नीताः । यशसा । गवाम् । दानाय । शूरम् । उत्-अमन्दिषुः । सुताः
अच्छ । हि । सोमः । कलशान् । असिस्यदत् । अत्यः । न । वोळ्हा । रघु-वर्तनिः । वृषा । अथ । देवानाम् । उभयस्य । जन्मनः । विद्वान् । अश्नोति । अमुतः । इतः । च । यत्
आ । नः । सोम । पवमानः । किर । वसु । इन्दो इति । भव । मघ-वा । राधसः । महः । शिक्ष । वयः-धः । वसवे । सु । चेतुना । मा । नः । गयम् । आरे । अस्मत् । परा । सिचः
आ । नः । पूषा । पवमानः । सु-रातयः । मित्रः । गच्छन्तु । वरुणः । स-जोषसः । बृहस्पतिः । मरुतः । वायुः । अश्विना । त्वष्टा । सविता । सु-यमा । सरस्वती
उभे
इति । द्यावापृथिवी इति । विश्वम्-इन्वे । अर्यमा । देवः । अदितिः । वि-धाता । भगः । नृ-शंसः । उरु । अन्तरिक्षम् । विश्वे । देवाः । पवमानम् । जुषन्त
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0