ऋग्वेदसंहिता, पदपाठ · अध्याय 9.79
॥3॥.
-र्व्_7:3।4-
(र्व्_9,79)
अचोदसः । नः । धन्वन्तु । इन्दवः । प्र । सुवानासः । बृहत्-दिवेषु । हरयः । वि । च । नशन् । नः । इषः । अरातयः । अर्यः । नशन्त । सनिषन्त । नः । धियः
प्र । नः । धन्वन्तु । इन्दवः । मद-च्युतः । धना । वा । येभिः । अर्वतः । जुनीमसि । तिरः । मर्तस्य । कस्य । चित् । परि-ह्वृतिम् । वयम् । धनानि । विश्व-धा । भरेमहि
उत । स्वस्याः । अरात्याः । अरिः । हि । सः । उत । अन्यस्याः । अरात्याः । वृकः । हि । सः । धन्वन् । न । तृष्णा । सम् । अरीत । तान् । अभि । सोम । जहि । पवमान । दुः-आध्यः
दिवि । ते । नाभा । परमः । यः । आददे । पृथिव्याः । ते । रुरुहुः । सानवि । क्षिपः । अद्रयः । त्वा । बप्सति । गोः । अधि । त्वचि । अप्-सु । त्वा । हस्तैः । दुदुहुः । मनीषिणः
एव । ते । इन्दो इति । सु-भ्वम् । सु-पेशसम् । रसम् । तुञ्जन्ति । प्रथमाः । अभि-श्रियः । निदम्-निदम् । पवमान । नि । तारिषः । आविः । ते । शुष्मः । भवतु । प्रियः । मदः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0