भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.78

9.78.1

॥2॥.
-र्व्_7:3।3-
(र्व्_9,78)
प्र । राजा । वाचम् । जनयन् । असिस्यदत् । अपः । वसानः । अभि । गाः । इयक्षति । गृभ्णाति । रिप्रम् । अविः । अस्य । तान्वा । शुद्धः । देवानाम् । उप । याति । निः-कृतम्

9.78.2

इन्द्राय । सोम । परि । सिच्यसे । नृ-भिः । नृ-चक्षाः । ऊर्मिः । कविः । अज्यसे । वने । पूर्वीः । हि । ते । स्रुतयः । सन्ति । यातवे । सहस्रम् । अश्वाः । हरयः । चमू-सदः

9.78.3

समुद्रियाः । अप्सरसः । मनीषिणम् । आसीनाः । अन्तः । अभि । सोमम् । अक्षरन् । ताः । ईम् । हिन्वन्ति । हर्म्यस्य । सक्षणिम् । याचन्ते । सुम्नम् । पवमानम् । अक्षितम्

9.78.4

गो-जित् । नः । सोमः । रथ-जित् । हिरण्य-जित् । स्वः-जित् । अप्-जित् । पवते । सहस्र-जित् । यम् । देवासः । चक्रिरे । पीतये । मदम् । स्वादिष्ठम् । द्रप्सम् । अरुणम् । मयः-भुवम्

9.78.5

एतानि । सोम । पवमानः । अस्म-युः । सत्यानि । कृण्वन् । द्रविणानि । अर्षसि । जहि । शत्रुम् । अन्तिके । दूरके । च । यः । उर्वीम् । गव्यूतिम् । अभयम् । च । नः । कृधि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc