भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.77

9.77.1

॥1॥.
-र्व्_7:3।2-
(र्व्_9,77)
एषः । प्र । कोशे । मधु-मान् । अचिक्रदत् । इन्द्रस्य । वज्रः । वपुषः । वपुः-तरः । अभि । ईम् । ऋतस्य । सु-दुघाः । घृत-श्चुतः । वाश्राः । अर्षन्ति । पयसा-इव । धेनवः

9.77.2

सः । पूर्व्यः । पवते । यम् । दिवः । परि । श्येनः । मथायत् । इषितः । तिरः । रजः । सः । मध्वः । आ । युवते । वेविजानः । इत् । कृशानोः । अस्तुः । मनसा । अह । बिभ्युषा

9.77.3

ते । नः । पूर्वासः । उपरासः । इन्दवः । महे । वाजाय । धन्वन्तु । गो-मते । ईक्षेण्यासः । अह्यः । न । चारवः । ब्रह्म-ब्रह्म । ये । जुजुषुः । हविः-हविः

9.77.4

अयम् । नः । विद्वान् । वनवत् । वनुष्यतः । इन्दुः । सत्राचा । मनसा । पुरु-स्तुतः । इनस्य । यः । सदने । गर्भम् । आदधे । गवाम् । उरुब्जम् । अभि । अषर्ति । व्रजम्

9.77.5

चक्रिः । दिवः । पवते । कृत्व्यः । रसः । महान् । अदब्धः । वरुणः । हुरुक् । यते । असावि । मित्रः । वृजनेषु । यज्ञियः । अत्यः । न । यूथे । वृष-युः । कनिक्रदत्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc