ऋग्वेदसंहिता, पदपाठ · अध्याय 9.76
॥33॥.
-र्व्_7:3।1-
(र्व्_9,76)
धर्ता । दिवः । पवते । कृत्व्यः । रसः । दक्षः । देवानाम् । अनु-माद्यः । नृ-भिः । हरिः । सृजानः । अत्यः । न । सत्व-भिः । वृथा । पाजांसि । कृणुते । नदीषु । आ
शूरः । न । धत्ते । आयुधा । गभस्त्योः । स्वर् इति स्वः । सिसासन् । रथिरः । गो-इष्टिषु । इन्द्रस्य । शुष्मम् । ईरयन् । अपस्यु-भिः । इन्दुः । हिन्वानः । अज्यते । मनीषि-भिः
इन्द्रस्य । सोम । पवमानः । ऊर्मिणा । तविष्यमाणः । जठरेषु । आ । विश । प्र । नः । पिन्व । वि-द्युत् । अभ्रा-इव । रोदसी इति । धिया । न । वाजान् । उप । मासि । शश्वतः
विश्वस्य । राजा । पवते । स्वः-दृशः । ऋतस्य । धीतिम् । ऋषिषाट् । अवीवशत् । यः । सूर्यस्य । असिरेण । मृज्यते । पिता । मतीनाम् । असमष्ट-काव्यः
वृषा-इव । यूथा । परि । कोशम् । अर्षसि । अपाम् । उप-स्थे । वृषभः । कनिक्रदत् । सः । इन्द्राय । पवसे । मत्सरिन्-तमः । यथा । जेषाम । सम्-इथे । त्वा-ऊतयः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0