ऋग्वेदसंहिता, पदपाठ · अध्याय 9.75
॥32॥.
-र्व्_7:2।33-
(र्व्_9,75)
अभि । प्रियाणि । पवते । चनः-हितः । नामानि । यह्वः । अधि । येषु । वर्धते । आ । सूर्यस्य । बृहतः । बृहन् । अधि । रथम् । विष्वञ्चम् । अरुहत् । वि-चक्षणः
ऋतस्य । जिह्वा । पवते । मधु । प्रियम् । वक्ता । पतिः । धियः । अस्याः । अदाभ्यः । दधाति । पुत्रः । पित्रोः । अपीच्यम् । नाम । तृतीयम् । अधि । रोचने । दिवः
अव । द्युतानः । कलशान् । अचिक्रदन् । नृ-भिः । वेमानः । कोशे । आ । हिरण्यये । अभि । ईम् । ऋतस्य । दोहनाः । अनूषत । अधि । त्रि-पृष्ठः । उषसः । वि । राजति
अद्रि-भिः । सुतः । मति-भिः । चनः-हितः । प्र-रोचयन् । रोदसी इति । मातरा । शुचिः । रोमाणि । अव्या । समया । वि । धावति । मधोः । धारा । पिन्वमाना । दिवे-दिवे
परि । सोम । प्र । धन्व । स्वस्तये । नृ-भिः । पुनानः । अभि । वासय । आशिरम् । ये । ते । मदाः । आहनसः । वि-हायसः । तेभिः । इन्द्रम् । चोदय । दातवे । मघम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0