भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.74

9.74.1

॥30॥.
-र्व्_7:2।31-
(र्व्_9,74)
शिशुः । न । जातः । अव । चक्रदत् । वने । स्वः । यत् । वाजी । अरुषः । सिसासति । दिवः । रेतसा । सचते । पयः-वृधा । तम् । ईमहे । सु-मती । शर्म । स-प्रथः

9.74.2

दिवः । यः । स्कम्भः । धरुणः । सु-आततः । आपूर्णः । अंशुः । परि-एति । विश्वतः । सः । इमे इति । मही इति । रोदसी इति । यक्षत् । आवृता । समीचीने इतिसम्-ईचीने । दाहार । सम् । इषः । कविः

9.74.3

महि । प्सरः । सु-कृतम् । सोम्यम् । मधु । उर्वी । गव्यूतिः । अदितेः । ऋतम् । यते । ईशे । यः । वृष्टेः । इतः । उस्रियः । वृषा । अपाम् । नेता । यः । इतः-ऊतिः । ऋग्मियः

9.74.4

आत्मन्-वत् । नभः । दुह्यते । घृतम् । पयः । ऋतस्य । नाभिः । अमृतम् । वि । जायते । समीचीनाः । सु-दानवः । प्रीणन्ति । तम् । नरः । हितम् । अव । मेहन्ति । पेरवः

9.74.5

अरावीत् । अंशुः । सचमानः । ऊर्मिणा । देव-अव्यम् । मनुषे । पिन्वति । त्वचम् । दधाति । गर्भम् । अदितेः । उप-स्थे । आ । येन । तोकम् । च । तनयम् । च । धामहे

9.74.6

॥31॥.
-र्व्_7:2।32-
सहस्र-धारे । अव । ताः । असश्चतः । तृतीये । सन्तु । रजसि । प्रजावतीः । चतस्रः । नाभः । नि-हिताः । अवः । दिवः । हविः । भरन्ति । अमृतम् । घृत-श्चुतः

9.74.7

श्वेतम् । रूपम् । कृणुते । यत् । सिसासति । सोमः । मीढवान् । असुरः । वेद । भूमनः । धिया । शमी । सचते । सः । ईम् । अभि । प्र-वत् । दिवः । कवन्धम् । अव । दर्षत् । उद्रिणम्

9.74.8

अध । श्वेतम् । कलशम् । गोभिः । अक्तम् । कार्ष्मन् । आ । वाजी । अक्रमीत् । सस-वान् । आ । हिन्विरे । मनसा । देव-यन्तः । कक्षीवते । शत-हिमाय । गोनाम्

9.74.9

अत्-भिः । सोम । पपृचानस्य । ते । रसः । अव्यः । वारम् । वि । पवमान । धावति । सः । मृज्यमानः । कवि-भिः । मदिन्-तम । स्वदस्व । इन्द्राय । पवमान । पीतये

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc