भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.73

9.73.1

॥28॥.
-र्व्_7:2।29-
(र्व्_9,73)
स्रक्वे । द्रप्सस्य । धमतः । सम् । अस्वरन् । ऋतस्य । योना । सम् । अरन्त । नाभयः । त्रीन् । सः । मूर्ध्नः । असुरः । चक्रे । आरभे । सत्यस्य । नावः । सु-कृतम् । अपीपरन्

9.73.2

सम्यक् । सम्यञ्चः । महिषाः । अहेषत । सिन्धोः । ऊर्मौ । अधि । वेनाः । अवीविपन् । मधोः । धाराभिः । जनयन्तः । अर्कम् । इत् । प्रियाम् । इन्द्रस्य । तन्वम् । अवीवृधन्

9.73.3

पवित्र-वन्तः । परि । वाचम् । आसते । पितआ । एषाम् । प्रत्नः । अभि । रक्षति । व्रतम् । महः । समुद्रम् । वरुणः । तिरः । दधे । धीराः । इत् । शेकुः । धरुणेषु । आरभम्

9.73.4

सहस्र-धारे । अव । ते । सम् । असरन् । दिवः । नाके । मधु-जिह्वाः । असश्चतः । अस्य । स्पशः । न । नि । मिषन्ति । भूर्णयः । पदे-पदे । पाशिनः । सन्ति । सेतवः

9.73.5

पितुः । मातुः । अधि । आ । ये । सम्-अस्वरन् । ऋचा । शोचन्तः । सम्-दहन्तः । अव्रतान् । इन्द्र-द्विष्टाम् । अप । धमन्ति । मायया । त्वचम् । असिक्नीम् । भूमनः । दिवः । परि

9.73.6

॥29॥.
-र्व्_7:2।30-
प्रत्नात् । मानात् । अधि । आ । ये । सम्-अस्वरन् । श्लोक-यन्त्रासः । रभसस्य । मन्तवः । अप । अनक्षासः । बधिराः । अहासत । ऋतस्य । पन्थाम् । न । तरन्ति । दुः-कृतः

9.73.7

सहस्र-धारे । वि-तते । पवित्रे । आ । वाचम् । पुनन्ति । कवयः । मनीषिणः । रुद्रासः । एषाम् । इषिरासः । अद्रुहः । स्पशः । सु-अञ्चः । सु-दृशः । नृ-चक्षसः

9.73.8

ऋतस्य । गोपाः । न । दभाय । सु-क्रतुः । त्री । सः । पवित्रा । हृदि । अन्तः । आ । दधे । विद्वान् । सः । विश्वा । भुवना । अभि । पश्यति । अव । अजुष्टान् । विध्यति । कर्ते । अव्रतान्

9.73.9

ऋतस्य । तन्तुः । वि-ततः । पवित्रे । आ । जिह्वायाः । अग्रे । वरुणस्य । मायया । धीराः । चित् । तत् । सम्-इनक्षन्तः । आशत । अत्र । कर्तम् । अव । पदाति । अप्र-भुः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc