ऋग्वेदसंहिता, पदपाठ · अध्याय 9.72
॥26॥.
-र्व्_7:2।27-
(र्व्_9,72)
हरिम् । मृजन्ति । अरुषः । न । युज्यते । सम् । धेनु-भिः । कलशे । सोमः । अज्यते । उत् । वाचम् । ईरयति । हिन्वते । मती । पुरु-स्तुतस्य । कति । चित् । परि-प्रियः
साकम् । वदन्ति । बहवः । मनीषिणः । इन्द्रस्य । सोमम् । जठरे । यत् । आदुहुः । यदि । मृजन्ति । सु-गभस्तयः । नरः । स-नीळाभिः । दश-भिः । काम्यम् । मधु
अरममाणः । अति । एति । गाः । अभि । सूर्यस्य । प्रियम् । दुहितुः । तिरः । रवम् । अनु । अस्मै । जोषम् । अभरत् । विनम्-गृसः । सम् । द्वयीभिः । स्वसृ-भिः । क्षेति । जामि-भिः
नृ-धूतः । अद्रि-सुतः । बर्हिषि । प्रियः । पतिः । गवाम् । प्र-दिवः । इन्दुः । ऋत्वियः । पुरन्धि-वान् । मनुषः । यज्ञ-साधनः । शुचिः । धिया । पवते । सोमः । इन्द्र । ते
नृबाहु-भ्याम् । चोदितः । धारया । सुतः । अनु-स्वधम् । पवते । सोमः । इन्द्र । ते । आ । अप्राः । क्रतून् । सम् । अजैः । अध्वरे । मतीः । वेः । न । द्रुषत् । चम्वोः । आ । असदत् । हरिः
॥27॥.
-र्व्_7:2।28-
अंशुम् । दुहन्ति । स्तनयन्तम् । अक्षितम् । कविम् । कवयः । अपसः । मनीषिणः । सम् । ईम् इति । गावः । मतयः । यन्ति । सम्-यतः । ऋतस्य । योना । सदने । पुनः-भुवः
नाभा । पृथिव्याः । धरुणः । महः । दिवः । अपाम् । ऊर्मौ । सिन्धुषु । अन्तः । उक्षितः । इन्द्रस्य । वज्रः । वृषभः । विभु-वसुः । सोमः । हृदे । पवते । चारु । मत्सरः
सः । तु । पवस्व । परि । पार्थिवम् । रजः । स्तोत्रे । शिक्षन् । आधून्वते । च । सुक्रतो इतिसु-क्रतो । मा । नः । निः । भाक् । वसुनः । सादन-स्पृशः । रयिम् । पिशङ्गम् । बहुलम् । वसीमहि
आ । तु । नः । इन्दो इति । शत-दातु । अश्व्यम् । सहस्र-दातु । पशु-मत् । हिरण्य-वत् । उप । मास्व । बृहतीः । रेवतीः । इषः । अधि । स्तोत्रस्य । पवमान । नः । गहि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0