ऋग्वेदसंहिता, पदपाठ · अध्याय 9.71
॥24॥.
-र्व्_7:2।25-
(र्व्_9,71)
आ । दक्षिणा । सृज्यते । शुष्मी । आसदम् । वेति । द्रुहः । रक्षसः । पाति । जागृविः । हरिः । ओपशम् । कृणुते । नभः । पयः । उप-स्तिरे । चम्वोः । ब्रह्म । निः-निजे
प्र । कृष्टिहा-इव । शूषः । एति । रोरुवत् । असुर्यम् । वर्णम् । नि । रिणीते । अस्य । तम् । जहाति । वव्रिम् । पितुः । एति । निः-कृतम् । उप-प्रुतम् । कृणुते । निः-निजम् । तना
अद्रि-भिः । सुतः । पवते । गभस्त्योः । वृषायते । नभसा । वेपते । मती । सः । मोदते । नसते । साधते । गिरा । नेनिक्ते । अप्-सु । यजते । परीमणि
परि । द्युक्षम् । सहसः । पर्वत-वृधम् । मध्वः । सिञ्चन्ति । हर्म्यस्य । सक्षणिम् । आ । यस्मिन् । गावः । सुहुत-आदः । ऊधनि । मूर्धन् । श्रीणन्ति । अग्रियम् । वरीम-भिः
सम् । ईम् इति । रथम् । न । भुरिजोः । अहेषत । दश । स्वसारः । अदितेः । उप-स्थे । आ । जिगात् । उप । ज्रयति । गोः । अपीच्यम् । पदम् । यत् । अस्य । मतुथाः । अजीजनन्
॥25॥.
-र्व्_7:2।26-
श्येनः । न । योनिम् । सदनम् । धिया । कृतम् । हिरण्ययम् । आसदम् । देवः । आ । ईषति । आ । ईम् इति । रिणन्ति । बर्हिषि । प्रियम् । गिरा । अश्वः । न । देवान् । अपि । एति । यज्ञियः
परा । वि-अक्तः । अरुषः । दिवः । कविः । वृषा । त्रि-पृष्ठः । अनविष्ट । गाः । अभि । सहस्र-नीतिः । यतिः । परायतिः । रेभः । न । पूर्वीः । उषसः । वि । राजति
त्वेषम् । रूपम् । कृणुते । वर्णः । अस्य । सः । यत्र । अशयत् । सम्-ऋता । सेधति । स्रिधः । अप्साः । याति । स्वधया । दैव्यम् । जनम् । सम् । सु-स्तुती । नसते । सम् । गो-अग्रया
उक्षा-इव । यूथा । परि-यन् । अरावीत् । अधि । त्विषीः । अधित । सूर्यस्य । दिव्यः । सु-पर्णः । अव । चक्षत । क्षाम् । सोमः । परि । क्रतुना । पश्यते । जाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0