ऋग्वेदसंहिता, पदपाठ · अध्याय 9.70
॥22॥.
-र्व्_7:2।23-
(र्व्_9,70)
त्रिः । अस्मै । सप्त । धेनवः । दुदुह्रे । सत्याम् । आशिरम् । पूर्व्ये । व्योमनि । चत्वारि । अन्या । भुवनानि । निर्णिजे । चारूणि । चक्रे । यत् । ऋतैः । अवर्धत
सः । भिक्षमाणः । अमृतस्य । चारुणः । उभे इति । द्यावा । काव्येन । वि । शश्रथे । तेजिष्ठाः । अपः । मंहना । परि । व्यत । यदि । देवस्य । श्रवसा । सदः । विदुः
ते । अस्य । सन्तु । केतवः । अमृत्यवः । अदाभ्यासः । जनुषी इति । उभे इति । अनु । येभिः । नृम्णा । च । देव्या । च । पुनते । आत् । इत् । राजानम् । मननाः । अगृभ्णत
सः । मृज्यमानः । दश-भिः । सुकर्म-भिः । प्र । मध्यमासु । मातृषु । प्र-मे । सचा । व्रतानि । पानः । अमृतस्य । चारुणः । उभे इति । नृ-चक्षाः । अनु । पश्यते । विशौ
सः । मर्मृजानः । इन्द्रियाय । धायसे । आ । उभे इति । अन्तरिति । रोदसी इति । हर्षते । हितः । वृषा । शुष्मेण । बाधते । वि । दुः-मतीः । आदेदिशानः । शयर्हा-इव । शुरुधः
॥23॥.
-र्व्_7:2।24-
सः । मातरा । न । ददृशानः । उस्रियः । नानदत् । एति । मरुताम्-इव । स्वनः । जानन् । ऋतम् । प्रथमम् । यत् । स्वः-नरम् । प्र-शस्तये । कम् । अवृणीत । सु-क्रतुः
रुवति । भीमः । वृषभः । तविष्यया । शृङ्गेइति । शिशानः । हरिणी इति । वि-चक्षणः । आ । योनिम् । सोमः । सु-कृतम् । नि । सीदति । गव्ययी । त्वक् । भवति । निः-निक् । अव्ययी
शुचिः । पुनानः । तन्वम् । अरेपसम् । अव्ये । हरिः । नि । अधाविष्ट । सानवि । जुष्टः । मित्राय । वरुणाय । वायवे । त्रि-धातु । मधु । क्रियते । सुकर्म-भिः
पवस्व । सोम । देव-वीतये । वृषा । इन्द्रस्य । हार्दि । सोम-धानम् । आ । विश । पुरा । नः । बाधात् । दुः-इता । अति । पारय । क्षेत्र-वित् । हि । दिशः । आह । वि-पृच्छते
हितः । न । सप्तिः । अभि । वाजम् । अर्ष । न्द्रस्य । इन्दो इति । जठरम् । आ । पवस्व । नावा । न । सिन्धुम् । अति । पर्षि । विद्वान् । शूरः । न । युध्यन् । अव । नः । निदः । स्परितिस्पः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0