ऋग्वेदसंहिता, पदपाठ · अध्याय 9.69
॥20॥.
-र्व्_7:2।21-
(र्व्_9,69)
इषुः । न । धन्वन् । प्रति । धीयते । मतिः । वत्सः । न । मातुः । उप । सर्जि । ऊर्धनि । उरुधारा-इव । दुहे । अग्रे । आयती । अस्य । व्रतेषु । अपि । सोमः । इष्यते
उपो इति । मतिः । पृच्यते । सिअयते । मधु । मन्द्र-अजनी । चोदते । अन्तः । आसनि । पवमानः । सम्-तनिः । प्रघ्नताम्-इव । मधु-मान् । द्रप्सः । परि । वारम् । अर्षति
अव्ये । वधू-युः । पवते । परि । त्वचि । श्रथ्नाईते । नप्तीः । अदितेः । ऋतम् । यते । हरिः । अक्रान् । यजतः । सम्-यतः । मदः । नृम्ना । शिशानः । महिषः । न । शोभते
उक्षा । मिमाति । प्रति । यन्ति । धेनवः । देवस्य । देवीः । उप । यन्ति । निः-कृतम् । अति । अक्रमीत् । अर्जुनम् । वारम् । अव्ययम् । अत्कम् । न । निक्तम् । परि । सोमः । अव्यत
अमृक्तेन । रुशता । वाससा । हरिः । अमर्त्यः । निः-निजानः । परि । व्यत । दिवः । पृष्ठम् । बर्हणा । निः-निजे । कृत । उप-स्तरणम् । चम्वोः । नभस्मयम्
॥21॥.
-र्व्_7:2।22-
सूर्यस्य-इव । रश्मयः । द्रवयित्नवः । मत्सरासः । प्र-सुपः । साकम् । ईरते । तन्तुम् । ततम् । परि । सर्गासः । आशवः । न । इन्द्रात् । ऋते । पवते । धाम । किम् । चन
सिन्धोः-इव । प्रवणे । निम्ने । आशवः । वृष-च्युताः । मदासः । गातुम् । आशत । शम् । नः । नि-वेशे । द्वि-पदे । चतुः-पदे । अस्मे इति । वाजाः । सोम । तिष्ठन्तु । कृष्टयः
आ । नः । पवस्व । वसु-मत् । हिरण्य-वत् । अश्व-वत् । गो-मत् । यव-मत् । सु-वीर्यम् । यूयम् । हि । सोम । पितरः । मम । स्थन । दिवः । मूर्धानः । प्र-स्थिताः । वयः-कृतः
एते । सोमाः । पवमानासः । इन्द्रम् । रथाः-इव । प्र । ययुः । सातिम् । अच्छ । सुताः । पवित्रम् । अति । यन्ति । अव्यम् । हित्वी । वव्रिम् । हरितः । वृष्टिम् । अच्छ
इन्दो इति । इन्द्राय । बृहते । पवस्व । सु-मृळीकः । अनवद्यः । रिशादाः । भर । चन्द्राणि । गृणते । वसूनि । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0