ऋग्वेदसंहिता, पदपाठ · अध्याय 9.68
॥18॥.
-र्व्_7:2।19-
(र्व्_9,68)
प्र । देवम् । अच्छ । मधु-मन्तः । इन्दवः । असिस्यदन्त । गावः । आ । न । धेनवः । बर्हि-सदः । वचनावन्तः । ऊध-भिः । परि-स्रुतम् । उस्रियाः । निः-निजम् । धिरे
सः । रोरुवत् । अभि । पूर्वाः । अचिक्रदत् । उप-आरुहः । श्रथयन् । स्वादते । हरिः । तिरः । पवित्रम् । परि-यन् । उरु । ज्रयः । नि । शर्याणि । दधते । देवः । आ । वरम्
वि । यः । ममे । यम्या । संयती इतिसम्-यती । मदः । साकाम्-वृधा । पयसा । पिन्वत् । अक्षिता । मही इति । अपारे इति । रजसी इति । वि-वेविदत् । अभि-व्रजन् । अक्षितम् । पाजः । आ । ददे
सः । मातरा । वि-चरन् । वाज-यन् । अपः । प्र । मेधिरः । स्वधया । पिन्वते । पदम् । अंशुः । यवेन । पिपिशे । यतः । नृ-भिः । सम् । जामि-भिः । नसते । रक्षते । शिरः
सम् । दक्षेण । मनसा । जायते । कविः । ऋतस्य । गर्भः । नि-हितः । यमा । परः । यूना । ह । सन्ता । प्रथमम् । वि । जज्ञतुः । गुहा । हितम् । जनिम । नेमम् । उत्-यतम्
॥19॥.
-र्व्_7:2।20-
मन्द्रस्य । रूपम् । विविदुः । मनीषिणः । श्येनः । यत् । अन्धः । अभरत् । परावतः । तम् । मर्जयन्त । सु-वृधम् । नदीषु । आ । उशन्तम् । अंशुम् । परि-यन्तम् । ऋग्मियम्
त्वाम् । मृजन्ति । दश । योषणः । सुतम् । सोम । ऋषि-भिः । मति-भिः । धीति-भिः । हितम् । अव्यः । वारेभिः । उत । देवहूति-भिः । नृ-भिः । यतः । वाजम् । आ । दर्षि । सातये
परि-प्रयन्तम् । वय्यम् । सु-संसदम् । सोमम् । मनीषाः । अभि । अनूषत । स्तुभः । यः । धारया । मधु-मान् । ऊर्मिणा । दिवः । इयर्ति । वाचम् । रयिषाट् । अमर्त्यः
अयम् । दिवः । इयर्ति । विश्वम् । आ । रजः । सोमः । पुनानः । कलशेषु । सीदति । अत्-भिः । गोभिः । मृज्यते । अद्रि-भिः । सुतः । पुनानः । इन्दुः । वरिवः । विदत् । प्रियम्
एव । नः । सोम । परि-सिच्यमानः । वयः । दधत् । चित्र-तमम् । पवस्व । अद्वेषे । द्यावापृथिवी इति । हुवेम । देवाः । धत्त । रयिम् । अस्मे इति । सु-वीरम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0