ऋग्वेदसंहिता, पदपाठ · अध्याय 9.62
॥23॥.
-र्व्_7:1।24-
(र्व्_9,62)
एते । असृग्रम् । इन्दवः । तिरः । पवित्रम् । आशवः । विश्वानि । अभि । सौभगा
वि-घ्नन्तः । दुः-इता । पुरु । सु-गा । तोकाय । वाजिनः । तना । कृण्वन्तः । अर्वते
कृण्वन्तः । वरिवः । गवे । अभि । अर्षन्ति । सु-स्तुतिम् । इळाम् । अस्मभ्यम् । सम्-यतम्
असावि । अंशुः । मदाय । अप्-सु । दक्षः । गिरि-स्थाः । श्येनः । न । योनिम् । आ । असदत्
शुभ्रम् । अन्धः । देव-वातम् । अप्-सु । धूतः । नृ-भिः । सुतः । स्वदन्ति । गावः । पयः-भिः
॥24॥.
-र्व्_7:1।25-
आत् । ईम् । अश्वम् । न । हेतारः । अशूशुभन् । अमृताय । मध्वः । रसम् । सध-मादे
याः । ते । धाराः । मधु-श्चुतः । असृग्रम् । इन्दो इति । ऊतये । ताभिः । पवित्रम् । आ । असदः
सः । अर्ष । इन्द्राय । पीतये । तिरः । रोमाणि । अव्यया । सीदन् । योना । वनेषु । आ
त्वम् । इन्दो इति । परि । स्रव । स्वादिष्ठः । अङ्गिरः-भ्यः । वरिवः-वित् । घृतम् । पयः
अयम् । वि-चर्षणिः । हितः । पवमानः । सः । चेतति । हिन्वानः । आप्यम् । बृहत्
॥25॥.
-र्व्_7:1।26-
एषः । व्र्षा । वृष-व्रतः । पवमानः । अशस्ति-हा । करत् । वसूनि । दाशुषे
आ । पवस्व । सहस्रिणम् । रयिम् । गो-मन्तम् । अश्विनम् । पुरु-चन्द्रम् । पुरु-स्पृहम्
एषः । स्यः । परि । सिच्यते । मर्मृज्यमानः । आयु-भिः । उरु-गायः । कवि-क्रतुः
सहस्र-ऊतिः । शत-मघः । वि-मानः । रजसः । कविः । इन्द्राय । पवते । मदः
गिरा । जातः । इह । स्तुतः । इन्दुः । इन्द्राय । धीयते । विः । योना । वसतौ-इव
॥26॥.
-र्व्_7:1।27-
पवमानः । सुतः । नृ-भिः । सोमः । वाजम्-इव । असर्चत् । चमूषु । शक्मना । आसदम्
तम् । त्रि-पृष्ठे । त्रि-बन्धुरे । रथे । युञ्जन्ति । यातवे । ऋषीणाम् । सप्त । धीति-भिः
तम् । सोतारः । धन-स्पृतम् । आशुम् । वाजाय । यातवे । हरिम् । हिनोत । वाजिनम्
आ-विशन् । कलशम् । सुतः । विश्वा । अर्षन् । अभि । श्रियः । शूरः । न । गोषु । तिष्ठति
आ । ते । इन्दो इति । मदाय । कम् । पयः । दुहन्ति । आयवः । देवाः । देवेभ्यः । मधु
॥27॥.
-र्व्_7:1।28-
आ । नः । सोमम् । पवित्रे । आ । सृजत । मधुमत्-तमम् । देवेभ्यः । देवश्रुत्-तमम्
एते । सोमाः । असृक्षत । गृणानाः । श्रवसे । महे । मदिन्-तमस्य । धारया
अभि । गव्यानि । वीतये । नृम्णा । पुनानः । अर्षसि । सनत्-वाजः । परि । स्रव
उत । नः । गो-मतीः । इषः । विश्वाः । अर्ष । परि-स्तुभः । गृणानः । जमत्-अग्निना
पवस्व । वाचः । अग्नियः । सोम । चित्राभिः । ऊति-भिः । अभि । विश्वानि । काव्या
॥28॥.
-र्व्_7:1।29-
त्वम् । समुद्रियाः । अपः । अग्रियः । वाचः । ईरयन् । पवस्व । विश्वम्-एजय
तुभ्य । इमा । भुवना । कवे । महिम्ने । सोम । तस्थिरे । तुभ्यम् । अर्षन्ति । सिन्धवः
प्र । ते । दिवः । न । वृष्टयः । धाराः । यन्ति । असश्चतः । अभि । शुक्राम् । उप-स्तिरम्
इन्द्राय । इन्दुम् । पुनीतन । उग्रम् । दक्षाय । साधनम् । ईशानम् । वीति-राधसम्
पवमानः । ऋतः । कविः । सोमः । पवित्रम् । आ । असदत् । दधत् । स्तोत्रे । सु-वीर्यम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0