ऋग्वेदसंहिता, पदपाठ · अध्याय 9.61
॥17॥.
-र्व्_7:1।18-
(र्व्_9,61)
अया । वीती । परि । स्रव । यः । ते । इन्दो इति । मदेषु । आ । अव-अहन् । नवतीः । नव
पुरः । सद्यः । इथाधिये । दिवः-दासाय । शम्बरम् । अध । त्यम् । तुर्वशम् । यदुम्
परि । नः । अश्वम् । अश्व-वित् । गो-मत् । इन्दो इति । हिरण्य-वत् । क्षरा । सहस्रिणीः । इषः
पवमानस्य । ते । वयम् । पवित्रम् । अभि-उन्दतः । सखि-त्वम् । आ । वृणीमहे
ये । ते । पवित्रम् । ऊर्मयः । अभि-क्षरन्ति । धारया । तेभिः । नः । सोम । मृळय
॥18॥.
-र्व्_7:1।19-
सः । नः । पुनानः । आ । भर । रयिम् । वीर-वतीम् । इषम् । ईशानः । सोम । विश्वतः
एतम् । ओं इति । त्यम् । दश । क्षिपः । मृजन्ति । सिन्धु-मातरम् । सम् । आदित्येभिः । अख्यत
सम् । इन्द्रेण । उत । वायुना । सुतः । एति । पवित्रे । आ । सम् । सूर्यस्य । रश्मि-भिः
सः । नः । भगाय । वायवे । पूष्णे । पवस्व । मधु-मान् । चारुः । मित्रे । वरुणे । च
उच्चा । ते । जातम् । अन्धसः । दिवि । सत् । भूमिः । आ । ददे । उग्रम् । शर्म । महि । श्रवः
॥19॥.
-र्व्_7:1।20-
एना । विश्वानि । अर्यः । आ । द्युम्नानि । मानुषाणाम् । सिसासन्तः । वनामहे
सः । नः । इन्द्राय । यज्यवे । वरुणाय । मरुत्-भ्यः । वरिवः-वित् । परि । स्रव
उपो इति । सु । जातम् । अप्-तुरम् । गोभिः । भङ्गम् । परि-कृतम् । इन्दुम् । देवाः । अयासिषुः
तम् । इत् । वर्धन्तु । नः । गिरः । वत्सम् । संशिश्वरीः-इव । यः । इन्द्रस्य । हृदम्-सनिः
अर्ष । नः । सोम । शम् । गवे । धुक्षस्व । पिप्युषीम् । इषम् । वर्ध । समुद्रम् । उक्थ्यम्
॥20॥.
-र्व्_7:1।21-
पवमानः । अजीजनत् । दिवः । चित्रम् । न । तन्यतुम् । ज्योतिः । वैश्वानरम् । बृहत्
पवमानस्य । ते । रसः । मदः । राजन् । अदुच्छुनः । वि । वारम् । अव्यम् । अर्षति
पवमान । रसः । तव । दक्षः । वि । राजति । द्यु-मान् । ज्योतिः । विश्वम् । स्वः । दृशे
यः । ते । मदः । वरेण्यः । तेन । पवस्व । अन्धसा । देव-अवीः । अघशंस-हा
जघ्निः । वृत्रम् । अमित्रियम् । सस्निः । वाजम् । दिवे-दिवे । गो-साः । ओं इति । अश्व-साः । असि
॥21॥.
-र्व्_7:1।22-
सम्-मिश्लः । अरुषः । भव । सु-उपस्थाभिः । न । धेनु-भिः । सीदम् । श्येनः । न । योनिम् । आ
सः । पवस्व । यः । आविथ । इन्द्रम् । वृत्राय । हन्तवे । वव्रि-वांसम् । महीः । अपः
सु-वीरासः । वयम् । धना । जयेम । सोम । मीढवः । पुनानः । वर्ध । नः । गिरः
त्वा-ऊतासः । तव । अवसा । स्याम । वन्वन्तः । आमुरः । सोम । व्रतेषु । जागृहि
अप-घ्नन् । पवते । मृधः । अप । सोमः । अराव्णः । गच्छन् । इन्द्रस्य । निः-कृतम्
॥22॥.
-र्व्_7:1।23-
महः । नः । रायः । आ । भर । पवमान । जहि । मृधः । रास्व । इन्दो इति । वीर-वत् । यसः
न । त्वा । शतम् । चन । हुतः । राधः । दित्सन्तम् । आ । मिनन् । यत् । पुनानः । मखस्यसे
पवस्व । इन्दो इति । वृषा । सुतः । कृधि । नः । यशसः । जने । विश्वाः । अप । द्विषः । जहि
अस्य । ते । सख्ये । वयम् । तव । इन्दो इति । द्युम्ने । उत्-तमे । ससह्याम । पृतन्यतः
या । ते । भीमानि । आयुधा । तिग्मानि । सन्ति । धूर्वणे । रक्ष । समस्य । नः । निदः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0