भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.45

9.45.1

॥1॥.
-र्व्_7:1।2-
(र्व्_9,45)
सः । पवस्व । मदाय । कम् । नृ-चक्षा । देव-वीतये । इन्दो इति । इन्द्राय । पीतये

9.45.2

सः । नः । अर्ष । अभि । दूत्यम् । त्वम् । इन्द्राय । तोशसे । देवान् । सखि-भ्यः । आ । वरम्

9.45.3

उत । त्वाम् । अरुणम् । वयम् । गोभिः । अञ्ज्मः । मदाय । कम् । वि । नः । राये । दुरः । वृधि

9.45.4

अति । ओं इति । पवित्रम् । अक्रमीत् । वाजी । धुरम् । न । यामनि । इन्दुः । देवेषु । पत्यते

9.45.5

सम् । ईम् इति । सखायः । अस्वरन् । वने । क्रीळन्तम् । अति-अविम् । इन्दुम् । नावाः । आनूषत

9.45.6

तया । पवस्व । धारया । यया । पीतः । वि-चक्षसे । इन्दो इति । स्तोत्रे । सु-वीर्यम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc