भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.46

9.46.1

॥2॥.
-र्व्_7:1।3-
(र्व्_9,46)
असृग्रन् । देव-वीतये । अत्यासः । कृत्व्याः-इव । क्षरन्तः । पर्वत-वृधः

9.46.2

परि-कृतासः । इन्दवः । योषा-इव । पित्र्य-वती । वायुम् । सोमाः । असृक्षत

9.46.3

एते । सोमासः । इन्दवः । प्रयस्वन्तः । चमू इति । सुताः । इन्द्रम् । वर्धन्ति । कर्म-भिः

9.46.4

आ । धावत । सु-हस्त्यः । शुक्रा । गृभ्णीत । मन्थिना । गोभिः । श्रीणीत । मत्सरम्

9.46.5

सः । पवस्व । धनम्-जय । प्र-यन्ता । राधसः । महः । अस्मभ्यम् । सोम । गातु-वित्

9.46.6

एतम् । मृजन्ति । मर्ज्यम् । पवमानम् । दश । क्षिपः । इन्द्राय । मत्सरम् । मदम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc