ऋग्वेदसंहिता, पदपाठ · अध्याय 9.44
॥33॥.
-र्व्_7:1।1-
(र्व्_9,44)
प्र । नः । इन्दो इति । महे । तने । ऊर्मिम् । न । बिभ्रत् । अर्षसि । अभि । देवान् । अयास्यः
मती । जुष्टः । धिया । हितः । सोमः । हिन्वे । परावति । विप्रस्य । धारया । कविः
अयम् । देवेषु । जागृविः । सुतः । एति । पवित्रे । आ । सोमः । याति । वि-चर्षणिः
सः । नः । पवस्व । वाज-युः । चक्राणः । चारुम् । अध्वरम् । बर्हिष्मान् । आ । विवासति
सः । नः । भगाय । वायवे । विप्र-वीरः । सदावृधः । सोमः । देवेषु । आ । यमत्
सः । नः । अद्य । वसुत्तये । क्रतु-वित् । गातुवित्-तमः । वाजम् । जेषि । श्रवः । बृहत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0