भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.41

9.41.1

॥30॥.
-र्व्_6:8।31-
(र्व्_9,41)
प्र । ये । गावः । न । भूर्णयः । त्वेषाः । अयासः । अक्रमुः । घ्नन्तः । कृष्णाम् । अप । त्वचम्

9.41.2

सुवितस्य । मनामहे । अति । सेतुम् । दुः-आव्यम् । साह्वांसः । दस्युम् । अव्रतम्

9.41.3

शृण्वे । वृष्टेः-इव । स्वनः । पवमानस्य । शुष्मिणः । चरन्ति । वि-द्युतः । दिवि

9.41.4

आ । पवस्व । महीम् । इषम् । गो-मत् । इन्दो इति । हिरण्य-वत् । अश्व-वत् । वाज-वत् । सुतः

9.41.5

सः । पवस्व । वि-चर्षणे । आ । माही इति । रोदसी इति । पृण । उषाः । सूर्यः । न । रश्मि-भिः

9.41.6

परि । नः । शर्म-यन्त्या । धारया । सोम । विश्वतः । सर । रसा-इव । विष्टपम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc