ऋग्वेदसंहिता, पदपाठ · अध्याय 9.40
॥29॥.
-र्व्_6:8।30-
(र्व्_9,40)
पुनानः । अक्रमीत् । अभि । विश्वाः । मृधः । वि-चर्षणिः । शुम्भन्ति । विप्रम् । धीति-भिः
आ । योनिम् । अरुणः । रुहत् । गमत् । इन्द्रम् । वृषा । सुतः । ध्रुवे । सदसि । सीदति
नु । नः । रयिम् । महाम् । इन्दो इति । अस्मभ्यम् । सोम । विश्वतः । आ । पवस्व । सहस्रिणम्
विश्वा । सोम । पवमान । द्युम्नानि । इन्दो इति । आ । भर । विदाः । सहस्रिणीः । इषः
सः । नः । पुनानः । आ । भर । रयिम् । स्तोत्रे । सु-वीर्यम् । जरितुः । वर्धय । गिरः
पुनानः । इन्दो इति । आ । भर । सोम । द्वि-बर्हसम् । रयिम् । वृषन् । इन्दो इति । नः । उक्थ्यम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0