ग्रंथ पाठ
ऋग्वेदसंहिता, पदपाठ · अध्याय 9.42
9.42.1
॥31॥.
-र्व्_6:8।32-
(र्व्_9,42)
जनयन् । रोचना । दिवः । जनयन् । अप्-सु । सूर्यम् । वसानः । गाः । अपः । हरिः
9.42.2
एषः । प्रत्नेन । मन्मना । देवः । देवेभ्यः । परि । धारया । पवते । सुतः
9.42.3
ववृधानाय । तूर्वये । पवन्ते । वाज-सातये । सोमाः । सहस्र-पाजसः
9.42.4
दुहानः । प्रत्नम् । इत् । पयः । पवित्रे । परि । सिच्यते । क्रन्दन् । देवान् । अजीजनत्
9.42.5
अभि । विश्वानि । वार्या । अभि । देवान् । ऋत-वृधः । सोमः । पुनानः । अर्षति
9.42.6
गो-मत् । नः । सोम । वीर-वत् । अश्व-वत् । वाज-वत् । सुतः । पवस्व । बृहतीः । इषः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0