भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.39

9.39.1

॥28॥.
-र्व्_6:8।29-
(र्व्_9,39)
आशुः । अर्ष । बृहत्-मते । परि । प्रियेण । धाम्ना । यत्र । देवाः । इति । ब्रवन्

9.39.2

परि-कृण्वन् । अनिः-कृतम् । जनाय । यातयन् । इषः । वृष्टिम् । दिवः । परि । स्रव

9.39.3

सुतः । एति । पवित्रे । आ । त्विषिम् । दधानः । ओजसा । वि-चक्षाणः । वि-रोचयन्

9.39.4

अयम् । सः । यः । दिवः । परि । रघु-यामा । पवित्रे । आ । सिन्धोः । ऊर्मा । वि । अक्षरत्

9.39.5

आविवासन् । परावतः । अथो इति । अर्वावतः । सुतः । इन्द्राय । सिच्यते । मधु

9.39.6

समीचीनाः । अनूषत । हरिम् । हिन्वन्ति । अद्रि-भिः । योनौ । ऋतस्य । सीदत

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc