ऋग्वेदसंहिता, पदपाठ · अध्याय 9.38
॥27॥.
-र्व्_6:8।28-
(र्व्_9,38)
एषः । ओं इति । स्यः । वृषा । रथः । अव्यः । वारेभिः । अर्षति । गच्छन् । वाजम् । सहस्रिणम्
एतम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रि-भिः । इन्दुम् । इन्द्राय । पीतये
एतम् । त्यम् । हरितः । दश । मर्मृज्यन्ते । अपस्युवः । याभिः । मदाय । शुम्भते
एषः । स्यः । मानुषीषु । आ । श्येनः । न । विक्षु । सीदति । गच्छन् । जारः । न । योषितम्
एषः । स्यः । मद्यः । रसः । अव । चष्टे । दिवः । शिशुः । यः । इन्दुः । वारम् । आ । अविशत्
एषः । स्यः । पीतये । सुतः । हरिः । अर्षति । धर्णसिः । क्रन्दन् । योनिम् । अभि । प्रियम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0