ग्रंथ पाठ
ऋग्वेदसंहिता, पदपाठ · अध्याय 9.35
9.35.1
॥24॥.
-र्व्_6:8।25-
(र्व्_9,35)
आ । नः । पवस्व । धारया । पवमान । रयिम् । पृथुम् । यया । ज्योतिः । विदासि । नः
9.35.2
इन्दो इति । समुद्रम्-ईङ्खय । पवस्व । विश्वम्-एजय । रायः । धर्ता । नः । ओजसा
9.35.3
त्वया । वीरेण । वीर-वः । अभि । स्याम । पृतन्यतः । क्षर । नः । अभि । वार्यम्
9.35.4
प्र । वाजम् । इन्दुः । इष्यति । सिसासन् । वाज-साः । ऋषिः । व्रता । विदानः । आयुधा
9.35.5
तम् । गीः-भिः । वाचम्-ईङ्खयम् । पुनानम् । वासयामसि । सोमम् । जनस्य । गो-पतिम्
9.35.6
विश्वः । यस्य । व्रते । जनः । दाधार । धर्मणः । पतेः । पुनानस्य । प्रभु-वसोः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0