ऋग्वेदसंहिता, पदपाठ · अध्याय 9.34
॥23॥.
-र्व्_6:8।24-
(र्व्_9,34)
प्र । सुवानः । धारया । तना । इन्दुः । हिन्वानः । अर्षति । रुजत् । दृळ्हा । वि । ओजसा
सुतः । इन्द्राय । वायवे । वरुणाय । मरुत्-भ्यः । सोमः । अर्षति । विष्णवे
वृषाणम् । वृष-भिः । यतम् । सुन्वन्ति । सोमम् । अद्रि-भिः । दुहन्ति । शक्मना । पयः
भुवत् । त्रितस्य । मर्ज्यः । भुवत् । इन्द्राय । मत्सरः । सम् । रूपैः । अज्यते । हरिः
अभि । ईम् । ऋतस्य । विष्टपम् । दुहते । पृश्नि-मातरः । चारु । प्रिय-तमम् । हविः
सम् । एनम् । अहुताः । इमाः । गिरः । अर्षन्ति । स-स्रुतः । धेनूः । वाश्रः । अवीवशन्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0