भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.36

9.36.1

॥25॥.
-र्व्_6:8।26-
(र्व्_9,36)
असर्जि । रथ्यः । यथा । पवित्रे । चम्वोः । सुतः । कार्ष्मन् । वाजी । नि । अक्रमीत्

9.36.2

सः । वह्निः । सोम । जागृविः । पवस्व । देव-वीः । अति । अभि । कोशम् । मधु-श्चुतम्

9.36.3

सः । नः । ज्योतींषि । पूर्व्य । पवमान । वि । रोचय । क्रत्वे । दक्षाय । नः । हिनु

9.36.4

शुम्भमानः । ऋतयु-भिः । मृज्यमानः । गभस्त्योः । पवते । वारे । अव्यये

9.36.5

सः । विश्वा । दाशुषे । वसु । सोमः । दिव्यानि । पार्थिवा । पवताम् । आ । अन्तरिक्ष्या

9.36.6

आ । दिवः । पृष्ठम् । अश्व-युः । गव्य-युः । सोम । रोहसि । वीर-युः । शवसः । पते

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc