भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.33

9.33.1

॥22॥.
-र्व्_6:8।23-
(र्व्_9,33)
प्र । सोमासः । विपः-चितः । अपाम् । न । यन्ति । ऊर्मयः । वनानि । महिषाः-इव

9.33.2

अभि । द्रोणानि । बभ्रवः । शुक्राः । ऋतस्य । धारया । वाजम् । गो-मन्तम् । अक्षरन्

9.33.3

सुताः । इन्द्राय । वायवे । वरुणाय । मरुत्-भ्यः । सोमाः । अर्षन्ति । विष्णवे

9.33.4

तिस्रः । वाचः । उत् । ईरते । गावः । मिमन्ति । धेनवः । हरिः । एति । कनिक्रदत्

9.33.5

अभि । ब्रह्मीः । अनूषत । यह्वीः । ऋतस्य । मातरः । मर्मृज्यन्ते । दिवः । शिशुम्

9.33.6

रायः । समुद्रान् । चतुरः । अस्मभ्यम् । सोम । विश्वतः । आ । पवस्व । सहस्रिणः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc