ऋग्वेदसंहिता, पदपाठ · अध्याय 9.32
॥21॥.
-र्व्_6:8।22-
(र्व्_9,32)
प्र । सोमासः । मद-च्युतः । श्रवसे । नः । मघोनः । सुताः । विदथे । अक्रमुः
आत् । ईम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रि-भिः । इन्दुम् । इन्द्राय । पीतये
आत् । ईम् । हंसः । यथा । गणम् । विश्वस्य । अवीवशत् । मतिम् । अत्यः । न । गोभिः । अज्यते
उभे इति । सोम । अव-चाकशत् । मृगः । न । तक्तः । अर्षसि । सीदन् । ऋतस्य । योनिम् । आ
अभि । गावः । अनूषत । योषा । जारम्-इव । प्रियम् । अगन् । आजिम् । यथा । हितम्
अस्मे इति । धेहि । द्यु-मत् । यशः । मघवत्-भ्यः । च । मह्यम् । च । सनिम् । मेधाम् । उत । श्रवः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0