ऋग्वेदसंहिता, पदपाठ · अध्याय 9.31
॥20॥.
-र्व्_6:8।21-
(र्व्_9,31)
प्र । सोमासः । स्वाध्यः । पवमानासः । अक्रमुः । रयिम् । कृण्वन्ति । चेतनम्
दिवः । पृथिव्याः । अधि । भव । इन्दो इति । द्युम्न-वर्धनः । भव । वाजानाम् । पतिः
तुभ्यम् । वाताः । अभि-प्रियः । तुभ्यम् । अर्षन्ति । सिन्धवः । सोम । वर्धन्ति । ते । महः
आ । प्यायस्व । सम् । एतु । ते । विश्वतः । सोम । वृष्ण्यम् । भव । वाजस्य । सम्-गथे
तुभ्यम् । गावः । घृतम् । पयः । बभ्रो इति । दुदुह्रे । अक्षितम् । वर्षिष्ठे । अधि । सानवि
सु-आयुधस्य । ते । सतः । भुवनस्य । पते । वयम् । इन्दो इति । सखि-त्वम् । उश्मसि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0