ऋग्वेदसंहिता, पदपाठ · अध्याय 9.30
॥19॥.
-र्व्_6:8।20-
(र्व्_9,30)
प्र । धाराः । अस्य । शुष्मिणः । वृथा । पवित्रे । अक्षरन् । पुनानः । वाचम् । इष्यति
इन्दुः । हियानः । सोतृ-भिः । मृज्यमानः । कनिक्रदत् । इयर्ति । वग्नुम् । इन्द्रियम्
आ । नः । शुष्मम् । नृ-सह्यम् । वीर-वन्तम् । पुरु-स्पृहम् । पवस्व । सोम । धारया
प्र । सोमः । अति । धारया । पवमानः । असिस्यदत् । अभि । द्रोणानि । आसदम्
अप्-सु । त्वा । मधुमत्-तमम् । हरिम् । हिन्वन्ति । अद्रि-भिः । इन्दो इति । इन्द्राय । पीतये
सुनोत । मधुमत्-तमम् । सोमम् । इन्द्राय । वज्रिणे । चारुम् । शर्धाय । मत्सरम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0