ऋग्वेदसंहिता, पदपाठ · अध्याय 9.29
॥18॥.
-र्व्_6:8।19-
(र्व्_9,29)
प्र । अस्य । धाराः । अक्षरन् । वृष्णः । सुतस्य । ओजसा । देवान् । अनु । प्र-भूषतः
सप्तिम् । मृजन्ति । वेधसः । गृणन्तः । कारवः । गिरा । ज्योतिः । जज्ञानम् । उक्थ्यम्
सु-सहा । सोम । तानि । ते । पुनानाय । प्रभुवसो इतिप्रभु-वसो । वर्ध । समुद्रम् । उक्थ्यम्
विश्वा । वसूनि । सम्-जयन् । पवस्व । सोम । धारया । इनु । द्वेषांसि । सध्र्यक्
रक्ष । सु । नः । अररुषः । स्वनात् । समस्य । कस्य । चित् । निदः । यत्र । मुमुच्महे
आ । इन्दो इति । पार्थिवम् । रयिम् । दिव्यम् । पवस्व । धारया । द्यु-मन्तम् । शुष्मम् । आ । भर
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0